हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Ayodhya Kanda Sarga 76 – अयोध्याकाण्ड षट्सप्ततितमः सर्गः (७६)
॥ दशरथौर्ध्वदैहिकम् ॥
तमेवं शोकसन्तप्तं भरतं केकयी सुतम् ।
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठ वागृषिः ॥ १ ॥
अलं शोकेन भद्रं ते राजपुत्र महायशः ।
प्राप्तकालं नरपतेः कुरु सम्यानमुत्तमम् ॥ २ ॥
वसिष्ठस्य वचः शृत्वा भरतर्धारणां गतः ।
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ ३ ॥
उद्धृतं तैलसंरोदात् स तु भूमौ निवेशितम् ।
आपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥ ४ ॥
संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते ।
ततर्दशरथं पुत्रः विललाप सुदुःखितः ॥ ५ ॥
किं ते व्यवसितं राजन् प्रोषिते मय्यनागते ।
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ ६ ॥
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् ।
हीनं पुरुषसिंहेन रामेणाक्लिष्ट कर्मणा ॥ ७ ॥
योगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे ।
त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ ८ ॥
विधवा पृथिवी राजन् त्वया हीना न राजते ।
हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् ॥ ९ ॥
एवं विलपमानं तं भरतं दीनमानसम् ।
अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ १० ॥
प्रेत कार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः ।
तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ॥ ११ ॥
तथेति भरतः वाक्यं वसिष्ठस्याभिपूज्य तत् ।
ऋत्विक् पुरोहिताचार्यान् त्वरयामास सर्वशः ॥ १२ ॥
ये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृताः ।
ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि ॥ १३ ॥ [आह्रियन्त]
शिबिकायामथारोप्य राजानं गतचेतनम् ।
बाष्पकण्ठा विमनसः तमूहुः परिचारकाः ॥ १४ ॥
हिरण्यं च सुवर्णं च वासांसि विविधानि च ।
प्रकिरन्तः जना मार्गं नृपतेरग्रतः ययुः ॥ १५ ॥
चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा ।
देवदारूणि चाहृत्य क्षेपयन्ति तथापरे ॥ १६ ॥
गन्धानुच्चावचांश्चान्यान् तत्र गत्त्वाऽथ भूमिपम् ।
ततः संवेशयामासुश्चिता मध्ये तमृत्विजः ॥ १७ ॥
तथा हुताशनं दत्वा जेपुस्तस्य तदृत्विजः ।
जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ १८ ॥
शिबिकाभिश्च यानैश्च यथाऽर्हं तस्य योषितः ।
नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ १९ ॥
प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् ।
स्त्रियश्च शोकसन्तप्ताः कौसल्या प्रमुखास्तदा ॥ २० ॥
क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे ।
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ २१ ॥
ततः रुदन्त्यो विवशाः विलप्य च पुनः पुनः ।
यानेभ्यः सरयूतीरम् अवतेरुर्वराङ्गनाः ॥ २२ ॥
कृतोदकं ते भरतेन सार्धम्
नृपाङ्गना मन्त्रिपुरोहिताश्च ।
पुरं प्रविश्याश्रुपरीतनेत्राः
भूमौ दशाहं व्यनयन्त दुःखम् ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥
www.sanatanadharm.com